Sukta 10.22
युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । स्यन्ता पथा विरुक्मता सृजानः स्तोष्यध्वनः ॥
यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः । स्यन्ता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥
yujānó aśvā vā́tasya dhúnī devó devásya vajri-vaḥ | syántā pathā́ virúkmātā sṛjānás stoṣy ádhvanaḥ ||
Yoking the horses, the rushing powers of the Wind, O Vajrin, the god who serves the divine work, you set flowing paths of radiant movement; creating the way, you become the praise along the journey.
यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ । स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥युजानः । अश्वा । वातस्य । धुनी इति । देवः । देवस्य । वज्रिवः । स्यन्ता । पथा । विरुक्मता । सृजानः । स्तोषि । अध्वनः ॥yujānaḥ | aśvā | vātasya | dhunī iti | devaḥ | devasya | vajri-vaḥ | syantā | pathā | virukmatā | sṛjānaḥ | stoṣi | adhvanaḥ