Sukta 10.22
महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः । भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥
म॒हो यस्पति॒: शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः । भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥
mahó yás patiḥ śávaso asā́myā mahó nṛmṇásya tūtujiḥ | bhartā́ vájrasya dhṛṣṇóḥ pitā́ putrám iva priyám ||
He is the lord of a vast strength that does not diminish, the mighty impeller of the great heroic power. He bears the bold thunder-force; he is as a father who cherishes the beloved son—nourishing in us the growing might of the soul.
म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः । भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥महः । यः । पतिः । शवसः । असामि । आ । महः । नृम्णस्य । तूतुजिः । भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्इव । प्रियम् ॥mahaḥ | yaḥ | patiḥ | śavasaḥ | asāmi | ā | mahaḥ | nṛmṇasya | tūtujiḥ | bhartā | vajrasya | dhṛṣṇoḥ | pitā | putram-iva | priyam