Sukta 10.22
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः । मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥
इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥
iha śrutá índro asmé adyá stave vajrī́ ṛcī́ṣamaḥ | mitró na yó janéṣv ā́ yáśaś cakré asā́myā ||
Here and now may Indra be heard within us; today we chant him, the wielder of the thunder-force, with hymns of illumined speech. Like Mitra, he who among the peoples establishes glory and harmony, fashions in us a power that does not diminish.
इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः । मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥इह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः । मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥iha | śrutaḥ | indraḥ | asme iti | adya | stave | vajrī | ṛcīṣamaḥ | mitraḥ | na | yaḥ | janeṣu | ā | yaśaḥ | cakre | asāmi | ā