Sukta 10.22
कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते । ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥
कुह॑ श्रु॒त इन्द्र॒: कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते । ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥
kúha śrutá índraḥ kásminn adyá jáne mitró na śrūyate | ṛ́ṣīṇāṃ vā yáḥ kṣáye gúhā vā cárkṛṣe girā́ ||
Where is Indra heard of—among what people today is he heard, like a friend? Is he in the home of the seers, or hidden in secrecy, that he is made active by the word?
कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ । ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥कुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते । ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥kuha | śrutaḥ | indraḥ | kasmin | adya | jane | mitraḥ | na | śrūyate | ṛṣīṇām | vā | yaḥ | kṣaye | guhā | vā | carkṛṣe | girā