Sukta 10.22
अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥
अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥
ahastā́ yád apádī várdhata kṣā́ḥ śácībhiḥ vedyā́nām | śúṣṇaṃ pári pradakṣiṇíd viśvā́yave ní śiśnathaḥ ||
When the earth-fields grew, as it were, without hands and without feet, by the powers of conscious skill among the knowers, you encompassed Śuṣṇa and, moving in the right circuit for the universal life, you shattered him down.
अ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् । शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥अहस्ता । यत् । अपदी । वर्धत । क्षाः । शचीभिः । वेद्यानाम् । शुष्णम् । परि । प्रदक्षिणित् । विश्वआयवे । नि । शिश्नथः ॥ahastā | yat | apadī | vardhata | kṣāḥ | śacībhiḥ | vedyānām | śuṣṇam | pari | pra-dakṣiṇit | viśva-āyave | ni | śiśnathaḥ