Sukta 10.22
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः । विद्याम यासां भुजो धेनूनां न वज्रिवः ॥
अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं॑सन्तीरुप॒स्पृश॑: । वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥
asmè tā́ ta indra santu satyā́ ahiṃsantīr upaspṛ́śaḥ | vidyā́ma yā́sāṃ bhújo dhenūnā́ṃ na vajrivaḥ ||
May those (supports) of yours be in us, O Indra—true, not wounding, near-touching. May we know their enjoyment and use, as one knows the yielding of the cows of light, O wielder of the thunderbolt.
अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं॑सन्तीः । उ॒प॒ऽस्पृषः॑ । वि॒द्याम॑ । यासा॑म् । भुजः॑ । धे॒नू॒नाम् । न । व॒ज्रि॒ऽवः॒ ॥अस्मे इति । ता । ते । इन्द्र । सन्तु । सत्या । अहिंसन्तीः । उपस्पृषः । विद्याम । यासाम् । भुजः । धेनूनाम् । न । वज्रिवः ॥asme iti | tā | te | indra | santu | satyā | ahiṃsantīḥ | upa-spṛṣaḥ | vidyāma | yāsām | bhujaḥ | dhenūnām | na | vajri-vaḥ