Sukta 10.22
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः । वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥
माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः । व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥
mā́kudhryàgindra śūra vásvīr asmè bhūvann abhíṣṭayaḥ | vayáṃvayaṃ ta āsā́ṃ sumné syā́ma vajrivaḥ ||
O Indra, heroic one, let not our movement turn aside into the crooked (way). Let the rich supports become in us; may we, again and again, abide in the fostering happiness of those powers of yours, O wielder of the thunderbolt.
मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः । व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥मा । अकुध्र्यक् । इन्द्र । शूर । वस्वीः । अस्मे इति । भूवन् । अभिष्टयः । वयम्वयम् । ते । आसाम् । सुम्ने । स्याम । वज्रिवः ॥mā | akudhryak | indra | śūra | vasvīḥ | asme iti | bhūvan | abhiṣṭayaḥ | vayam-vayam | te | āsām | sumne | syāma | vajri-vaḥ