Sukta 10.22
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥
म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः । यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥
makṣū́ tā́ ta indra dā́nāpnasa ākṣā́ṇe śūra vajri-vaḥ | yád dha śúṣṇasya dambháyo jātáṃ víśvaṃ sayā́va-bhiḥ ||
Swiftly, O Indra, come with those powers that win the gifts, O hero Vajrin, in the moment of contest. For you have shattered the deceit-force of Śuṣṇa, and with your comradeship-forces you have brought all that is born into safety and right being.
म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्न॑सः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ । यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥मक्षु । ता । ते । इन्द्र । दानअप्नसः । आक्षाणे । शूर । वज्रिवः । यत् । ह । शुष्णस्य । दम्भयः । जातम् । विश्वम् । सयावभिः ॥makṣu | tā | te | indra | dāna-apnasaḥ | ākṣāṇe | śūra | vajri-vaḥ | yat | ha | śuṣṇasya | dambhayaḥ | jātam | viśvam | sayāva-bhiḥ