Sukta 10.22
त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः । गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥
त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः । गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ॥
tváṃ tā́n vṛtra-hátye codayo nṝ́n kārpā́ṇe śūra vajri-vaḥ | guhā́ yádī kavīnā́ṃ viśā́ṃ nákṣatra-śavasām ||
You urge those men on to the slaying of the Coverer, O hero Vajrin, even in the critical moment. And when the peoples of the seers hide themselves, you are the secret strength, the star-like power within them.
त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒दय॒ः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ । गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥त्वम् । तान् । वृत्रहत्ये । चोदयः । नॄन् । कार्पाणे । शूर । वज्रिवः । गुहा । यदि । कवीनाम् । विशाम् । नक्षत्रशवसाम् ॥tvam | tān | vṛtra-hatye | codayaḥ | nṝn | kārpāṇe | śūra | vajri-vaḥ | guhā | yadi | kavīnām | viśām | nakṣatra-śavasām