Sukta 10.21
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥
आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे । य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥
ā́gniṃ na svavṛ́ktibhir hótāraṃ tvā vṛṇīmahe | yajñā́ya stīrṇábarhiṣe ví vo made śīráṃ pāvakáśociṣaṃ vívakṣase ||
To Agni, with our self-fashioned workings, we choose you as the Hotar for the sacrifice, for the rite with the strewn seat. In our ecstasy you desire to manifest the strong, the purifier with radiant flame.
आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । य॒ज्ञाय॑ । स्ती॒र्णऽब॑र्हिषे । वि । वः॒ । मदे॑ । शी॒रम् । पा॒व॒कऽशो॑चिषम् । विव॑क्षसे ॥आ । अग्निम् । न । स्ववृक्तिभिः । होतारम् । त्वा । वृणीमहे । यज्ञाय । स्तीर्णबर्हिषे । वि । वः । मदे । शीरम् । पावकशोचिषम् । विवक्षसे ॥ā | agnim | na | svavṛkti-bhiḥ | hotāram | tvā | vṛṇīmahe | yajñāya | stīrṇa-barhi ṣe | vi | vaḥ | made | śīram | pāvaka-śociṣam | vivakṣase