Sukta 10.20
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । यस्य धर्मन्त्स्वरेनीः सपर्यन्ति मातुरूधः ॥
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् । यस्य॒ धर्म॒न्त्स्व१॒॑रेनी॑: सप॒र्यन्ति॑ मा॒तुरूध॑: ॥
agním īḷe bhujā́ṃ yáviṣṭhaṃ śāsā́ mítraṃ durdharītúm | yásya dhármantsvàreṇī́ḥ sapáryanti mātúrū́dhaḥ ||
I adore Agni, the youngest bearer of our enjoyments, the ruler who is a friend, hard to withstand. He whose steadfast laws the radiant powers serve, as they serve the Mother’s udder—drawing the nourishing fullness for our growth.
अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् । यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुःधरीतुम् । यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥agnim | īḷe | bhujām | yaviṣṭham | śāsā | mitram | duḥ-dharītum | yasya | dharman | svaḥ | enīḥ | saparyanti | mātuḥ | ūdhaḥ