Sukta 10.2
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षा स्पा॒र्हा इष॑: क्षु॒मती॑र्वि॒श्वज॑न्याः ॥
víśveṣāṁ hí adhvarā́ṇām anī́kaṁ citráṁ ketúṁ jánitā tvā jajā́na | sá ā́ yajasva nṛ-vátīr ánu kṣā́ spā́rhā íṣaḥ kṣu-mátīr viśvá-janyāḥ ||
For of all the rites the begetter has brought you forth as the bright face, the wondrous banner. So sacrifice, following the earths rich in men; win the desirable impulses, the nourishing plenitudes, born for all.
विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ । सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒स्वऽज॑न्याः ॥विश्वेषाम् । हि । अध्वराणाम् । अनीकम् । चित्रम् । केतुम् । जनिता । त्वा । जजान । सः । आ । यजस्व । नृवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुमतीः । विस्वजन्याः ॥viśveṣām | hi | adhvarāṇām | anīkam | citram | ketum | janitā | tvā | jajāna | saḥ | ā | yajasva | nṛ-vatīḥ | anu | kṣāḥ | spārhāḥ | iṣaḥ | kṣu-matīḥ | visva-janyāḥ