Sukta 10.2
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥
yám tvā dyā́vā-pṛthivī́ yám tvā́pas tváṣṭā yám tvā su-jánimā jajā́na | pánthām ánu pra-vidvā́n pitṛ-yā́ṇaṁ dyu-mád agne sam-idhā́no vi bhā́hi ||
O Agni, whom Heaven and Earth brought forth, whom the Waters and Tvaṣṭṛ fashioned, whom the power of a happy birth has generated—knowing the path that leads along the way of the Fathers, blaze forth, kindled, with luminous radiance within us.
यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजमि॑मा । ज॒जान॑ । पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥यम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सुजमिमा । जजान । पन्थाम् । अनु । प्रविद्वान् । पितृयानम् । द्युमत् । अग्ने । सम्इधानः । वि । भाहि ॥yam | tvā | dyāvāpṛthivī iti | yam | tvā | āpaḥ | tvaṣṭā | yam | tvā | su-jamimā | jajāna | panthām | anu | pra-vidvān | pitṛ-yānam | dyu-mat | agne | sam-idhānaḥ | vi | bhāhi