Sukta 10.2
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥
yát pā́ka-trā mánasā dī́na-dakṣā́ ná yajñásya manvaté mártyāsaḥ | agníṣ tád hótā kratu-víd vi-jā́nan yájiṣṭho devā́ṁ ṛtu-śó yájāti ||
When mortals, childish in mind and weak in capacity, do not truly conceive the sacrifice, Agni as Hotṛ—knower of the intention—understanding it clearly, most able in offering, sacrifices to the gods according to the right order.
यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः । अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥यत् । पाकत्रा । मनसा । दीनदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः । अग्निः । तत् । होता । क्रतुवित् । विजानन् । यजिष्ठः । देवान् । ऋतुशः । यजाति ॥yat | pāka-trā | manasā | dīna-dakṣāḥ | na | yajñasya | manvate | martyāsaḥ | agniḥ | tat | hotā | kratu-vit | vi-jānan | yajiṣṭhaḥ | devān | ṛtu-śaḥ | yajāti