Sukta 10.2
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥
यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभि॑: क॒ल्पया॑ति ॥
yád vo vayáṁ pra-minā́ma vratā́ni vidúṣāṁ devā́ aviduḥ-tarāsaḥ | agníṣ tád víśvam ā́ pṛṇāti vidvā́nyébhir devā́ṁ ṛtúbhiḥ kálpayāti ||
If we diminish your laws, O gods—being more ignorant than the knowers—Agni, who knows, fills up all that. By these right seasons he sets the gods in their proper order.
तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः । अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥तत् । वः । वयम् । प्रमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःतरासः । अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुभिः । कल्पयाति ॥tat | vaḥ | vayam | pra-mināma | vratāni | viduṣām | devāḥ | aviduḥ-tarāsaḥ | agniḥ | tat | viśvam | ā | pṛṇāti | vidvān | yebhiḥ | devān | ṛtu-bhiḥ | kalpayāti