Sukta 10.2
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् । अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ऋतून्कल्पयाति ॥
आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् । अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥
ā́ devā́nām ápi pánthām aganma yác chaknávāma tád ánu prá-voḷhum | agnír vidvā́nt sá yajā́t séd u hótā sá adhvarā́nt sá ṛtū́n kálpayāti ||
We have come upon the path of the gods, so far as we are able to follow and carry it forward. Agni, who knows, should sacrifice; he indeed is the Hotṛ—he sets in order the rites and the right seasons.
आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् । अ॒ग्निः । वि॒द्वान् । सः । य॒ज॒त् । सः । इत् । ऊँ॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒याति ॥आ । देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रवोळ्हुम् । अग्निः । विद्वान् । सः । यजत् । सः । इत् । ऊँ इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ā | devānām | api | panthām | aganma | yat | śaknavāma | tat | anu | pra-voḷhum | agniḥ | vidvān | saḥ | yajat | saḥ | it | oṃ iti | hotā | saḥ | adhvarān | saḥ | ṛtūn | kalpayāti