Sukta 10.19
य उदानड्व्ययनं य उदानट् परायणम् । आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥
य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥
yá udānáḍ vyáyanaṃ yá udānáṭ parā́yaṇam | āvártanam nivártanam ápi gopā́ ní vartatām ||
He who has risen up into the widening ways, he who has risen up into the far-going—of turning and returning: may that Guardian also return and be present.
यः । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । अपि॑ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥यः । उत्आनट् । विअयनम् । यः । उत्आनट् । पराअयनम् । आवर्तनम् । निवर्तनम् । अपि । गोपाः । नि । वर्तताम् ॥yaḥ | ut-ānaṭ | vi-ayanam | yaḥ | ut-ānaṭ | parāyanam | āvartanam | n i-vartanam | api | gopāḥ | ni | vartatām