Sukta 10.19
यन्नियानं न्ययनं संज्ञानं यत्परायणम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
yán niyā́naṃ nyáyanaṃ saṃjñā́naṃ yát parā́yaṇam | āvártanam nivártanam yó gopā́ ápi táṃ huve ||
That which is the leading-in and the guiding-down, the reuniting recognition, and that which is the going-forth—both the turning and the returning: whatever guardian watches over these, him I call.
यत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नन् । नि॒ऽवर्त॑नम् । यः । गो॒पाः । अपि॑ । तम् । हु॒वे॒ ॥यत् । नियानम् । निअयनम् । सम्ज्ञानम् । यत् । पराअयनम् । आवर्तनन् । निवर्तनम् । यः । गोपाः । अपि । तम् । हुवे ॥yat | ni-yānam | ni-ayanam | sam-jñānam | yat | parāyanam | āvartanan | ni-vartanam | yaḥ | gopāḥ | api | tam | huve