Sukta 10.188
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । महीमियर्मि सुष्टुतिम् ॥
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुष॑: । म॒हीमि॑यर्मि सुष्टु॒तिम् ॥
asyá prá jā́tavedaso víprāvīrasya mīḷhúṣaḥ | mahī́m iyarmi suṣṭutím ||
To this Jātavedas—rich in inspired heroes and a bounteous giver—I uplift a great and well-shaped hymn of praise.
अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ । म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥अस्य । प्र । जातवेदसः । विप्रवीरस्य । मीळ्हुषः । महीम् । इयर्मि । सुस्तुतिम् ॥asya | pra | jāta-vedasaḥ | vipra-vīrasya | mīḷhuṣaḥ | mahīm | iyarmi | su-stutim