Sukta 10.188
प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् । इदं नो बर्हिरासदे ॥
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
prá nūnáṃ jā́tavedasam áśvaṃ hinota vā́jinam | idáṃ no bर्हír āsáde ||
Now urge forward the steed of Jātavedas, the forceful carrier of plenitude; let him come to sit upon this our sacred seat (the prepared field of offering).
प्र । नू॒नम् । जा॒तऽवे॑दसम् । अश्व॑म् । हि॒नो॒त॒ । वा॒जिन॑म् । इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥प्र । नूनम् । जातवेदसम् । अश्वम् । हिनोत । वाजिनम् । इदम् । नः । बर्हिः । आसदे ॥pra | nūnam | jāta-vedasam | aśvam | hinota | vājinam | idam | naḥ | barhiḥ | āsade