Sukta 10.188
या रुचो जातवेदसो देवत्रा हव्यवाहनीः । ताभिर्नो यज्ञमिन्वतु ॥
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः । ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥
yā́ rúcó jā́tavedaso devatrā́ havyavā́hanīḥ | tā́bhir no yajñám invatu ||
The rays of Jātavedas that bear the offering godward—by those may he set our sacrifice in motion and lead it to its fulfillment.
याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः । ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥याः । रुचः । जातवेदसः । देवत्रा । हव्यवाहनीः । ताभिः । नः । यज्ञम् । इन्वतु ॥yāḥ | rucaḥ | jāta-vedasaḥ | deva-trā | havya-vāhanīḥ | tābhiḥ | naḥ | yajñam | invatu