Sukta 10.187
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । स नः पर्षदति द्विषः ॥
यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ । स न॑: पर्ष॒दति॒ द्विष॑: ॥
yó rakṣā́ṃsi ni-jū́rvati vṛ́ṣā śukréṇa śocíṣā | sá naḥ párṣad áti dvíṣaḥ ||
He who with the bright flame, the strong Bull-force, wears down the powers of distortion; may he carry us beyond the hostile movements.
यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥यः । रक्षांसि । निजूर्वति । वृषा । शुक्रेण । शोचिषा । सः । नः । पर्षत् । अति । द्विषः ॥yaḥ | rakṣāṃsi | ni-jūrvati | vṛṣā | śukreṇa | śociṣā | saḥ | naḥ | parṣat | ati | dvi ṣaḥ