Sukta 10.183
अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥
अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥
ápaśyaṃ tvā manasā dīdhyā́nāṃ svā́yāṃ tanū́ ṛ́tvye nā́dhamānām | úpa mām uccā́ yuvatír babhūyāḥ prá jāyasva prajā́yā putra-kāme ||
I beheld thee with the mind in its kindling, in thine own body, labouring in the right season. Rise up over me and become as a young woman of power; be born forth, bring forth by creative progeny—O desire for the son, O will to a new birth.
अप॑श्यम् । त्वा॒ । मन॑सा । दीध्या॑नाम् । स्वाया॑म् । त॒नू इति॑ । ऋत्व्ये॑ । नाध॑मानाम् । उप॑ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥अपश्यम् । त्वा । मनसा । दीध्यानाम् । स्वायाम् । तनू इति । ऋत्व्ये । नाधमानाम् । उप । माम् । उच्चा । युवतिः । बभूयाः । प्र । जायस्व । प्रजया । पुत्रकाम ॥apaśyam | tvā | manasā | dīdhyānām | svāyām | tanū iti | ṛtvye | nādhamānām | upa | mām | uccā | yuvatiḥ | babhūyāḥ | pra | jāyasva | pra-jayā | putra-kāma