Sukta 10.183
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥
ápaśyaṃ tvā manasā cékītānaṃ tápaso jātáṃ tápaso víbhūtam | ihá prajā́m ihá rayíṃ rárāṇaḥ prá jāyasva prajā́yā putra-kāma ||
I beheld thee with the mind, conscious and discerning, born of tapas and made manifest by tapas. Rejoicing here in offspring-force and here in the plenitude of being, be born forth—bring forth by thy creative power, O desire for the son (the new formation).
अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् । इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥अपश्यम् । त्वा । मनसा । चेकितानम् । तपसः । जातम् । तपसः । विभूतम् । इह । प्रजाम् । इह । रयिम् । रराणः । प्र । जायस्व । प्रजया । पुत्रकाम ॥apaśyam | tvā | manasā | cekitānam | tapasaḥ | jātam | tapasaḥ | vi-bhūtam | iha | pra-jām | iha | rayim | rarāṇaḥ | pra | jāyasva | pra-jayā | putra-kāma