Sukta 10.182
तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विष॒: शर॑वे॒ हन्त॒वा उ॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
tápur-mūrdhā tapatu rakṣáso yé brahma-dvíṣaḥ śárave hántavā u | kṣipád aśástim ápa durmatíṃ hánn áthā karad yajamā́nāya śáṃ yóḥ ||
May Tapur-mūrdhā burn the Rakṣasas—those haters of the sacred Word—so they may be slain by the arrow of will. Casting away ill-formulation and slaying the evil thought, then may he make for the sacrificer peace and well-being.
तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊँ॒ इति॑ । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥तपुःमूर्धा । तपतु । रक्षसः । ये । ब्रह्मद्विषः । शरवे । हन्तवै । ऊँ इति । क्षिपत् । अशस्तिम् । अप । दुःमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥tapuḥ-mūrdhā | tapatu | rakṣasaḥ | ye | brahma-dviṣaḥ | śarave | hantavai | oṃ iti | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ