Sukta 10.182
नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु । क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
narāśáṃso no ’vatu prayā́je śáṃ no astv anuyā́jo háveṣu | kṣipád aśástim ápa durmatíṃ hánn áthā karad yajamā́nāya śáṃ yóḥ ||
May Narāśaṃsa guard us in the fore-offerings; may the after-offering be for our peace in the invocations. Casting away the ill-praise and slaying the evil thought, then may he make for the sacrificer the good and the well-being.
नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥नराशंसः । नः । अवतु । प्रयाजे । शम् । नः । अस्तु । अनुयाजः । हवेषु । क्षिपत् । अशस्तिम् । अप । दुःमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥narāśaṃsaḥ | naḥ | avatu | pra-yāje | śam | naḥ | astu | anu-yājaḥ | haveṣu | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ