Sukta 10.18
धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । अत्रैव त्वमिह वयं सुवीरा विश्वाः स्पृधो अभिमातीर्जयेम ॥
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒: स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥
dhánur hástād ā́dadāno mṛtásyā́smé kṣatrā́ya várcase bálāya | atráivá tvám ihá vayáṃ suvī́rā víśvāḥ spṛ́dho abhímātīr jayema ||
Taking the bow from the hand of the dead, for our lordly power, for luminous force, for strength—remain here. Here may we, rich in heroic souls, conquer all hostilities and all assailing powers of division.
धनुः॑ । हस्ता॑त् । आ॒ऽददा॑नः । मृ॒तस्य॑ । अ॒स्मे इति॑ । क्ष॒त्राय॑ । वर्च॑से । बला॑य । अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीराः॑ । विश्वाः॑ । स्पृधः॑ । अ॒भिऽमा॑तीः । ज॒ये॒म॒ ॥धनुः । हस्तात् । आददानः । मृतस्य । अस्मे इति । क्षत्राय । वर्चसे । बलाय । अत्र । एव । त्वम् । इह । वयम् । सुवीराः । विश्वाः । स्पृधः । अभिमातीः । जयेम ॥dhanuḥ | hastāt | ādadānaḥ | mṛtasya | asme iti | kṣatrāya | varcase | balāya | atra | eva | tvam | iha | vayam | su-vīrāḥ | viśvāḥ | spṛdhaḥ | abhi-mātīḥ | jayema