Sukta 10.18
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥
उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥
ud ī́rṣva nā́ry abhi jī́valokáṃ gatā́súm etám úpa śeṣe éhi | hastagrā́bhasya didhiṣós tavédáṃ pátyur janitvám abhí sáṃ babhūtha ||
Rise up, O woman, toward the world of the living; come—leave behind this one whose breath has gone, who lies near you. This is for you: by the taking of the hand, by the will to establish, you have entered again into the state of wifehood in full measure.
उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ । ह॒स्त॒ऽग्रा॒भस्य॑ । दि॒धि॒षोः । तव॑ । इ॒दम् । पत्युः॑ । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥उत् । ईर्ष्व । नारि । अभि । जीवलोकम् । गतअसुम् । एतम् । उप । शेषे । आ । इहि । हस्तग्राभस्य । दिधिषोः । तव । इदम् । पत्युः । जनित्वम् । अभि । सम् । बभूथ ॥ut | īrṣva | nāri | abhi | jīva-lokam | gata-asum | etam | upa | śeṣe | ā | ihi | hasta-grābhasya | didhiṣoḥ | tava | idam | patyuḥ | jani-tvam | abhi | sam | babhūtha