Sukta 10.18
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निॠतेरुपस्थात् ॥
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म् । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निॠ॑तेरु॒पस्था॑त् ॥
úpa sarpa mātáraṃ bhū́mim etā́m uruvyácasaṃ pṛthivī́ṃ suśévām | ū́rṇamradā yuvatír dákṣiṇāvata eṣā́ tvā pātu nírṛter upásthāt ||
Creep near to this Mother Earth—wide-spreading, the broad one, gracious and kind. Soft as wool is the young maiden, rich in the right-giving power; may she guard you from the realm of dissolution, from the lap of Nirṛti.
उप॑ । स॒र्प॒ । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृ॒थि॒वीम् । सु॒ऽशेवा॑म् । ऊर्ण॑ऽम्रदाः । यु॒व॒तिः । दक्षि॑णाऽवते । ए॒षा । त्वा॒ । पा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् ॥उप । सर्प । मातरम् । भूमिम् । एताम् । उरुव्यचसम् । पृथिवीम् । सुशेवाम् । ऊर्णम्रदाः । युवतिः । दक्षिणावते । एषा । त्वा । पातु । निःऋतेः । उपस्थात् ॥upa | sarpa | mātaram | bhūmim | etām | uru-vyacasam | pṛthivīm | su-śevām | ūrṇa-mradāḥ | yuvatiḥ | dakṣiṇāvate | eṣā | tvā | pātu | niḥ-ṛteḥ | upa-sthāt