Sukta 10.18
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु । अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्त॒ं जन॑यो॒ योनि॒मग्रे॑ ॥
imā́ nā́rīr avidhavā́ḥ supátnīr ā́ñjanena sarpíṣā sáṃ viśantu | anaśrávo 'namīvā́ḥ surátnā ā́ rohantaṃ jánayo yónim ágre ||
Let these women, not widowed, good in their union, enter together—anointed with unguent and with clarified richness. Without ill report, without affliction, possessing true treasures, let the mothers ascend the womb first (the creative seat), returning to the forward stream of life.
इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ । अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥इमाः । नारीः । अविधवाः । सुपत्नीः । आअञ्जनेन । सर्पिषा । सम् । विशन्तु । अनश्रवः । अनमीवाः । सुरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥imāḥ | nārīḥ | avidhavāḥ | su-patnīḥ | āñjanena | sarpiṣā | sam | viśantu | anaśravaḥ | anamīvāḥ | su-ratnāḥ | ā | rohantu | janayaḥ | yonim | agre