Sukta 10.18
आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥
आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ । इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायु॑: करति जी॒वसे॑ वः ॥
ā́ rohata ā́yur járasaṃ vṛṇānā́ anupūrváṃ yátamānā yáti ṣṭha | ihá tváṣṭā sujánimā sajóṣā dī́rgham ā́yuḥ karati jīváse vaḥ ||
Rise up, choosing life and its ripening age; striving in right succession, go onward and take your stand. Here may Tvaṣṭṛ, with the power of good begetting, in one accord, make for you a long life for living.
आ । र॒ह॒त॒ । आयुः॑ । ज॒रस॑म् । वृ॒णा॒नाः । अ॒नु॒ऽपू॒र्वम् । यत॑मानाः । यति॑ । स्थ । इ॒ह । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषाः॑ । दी॒र्घम् । आयुः॑ । क॒र॒ति॒ । जी॒वसे॑ । वः॒ ॥आ । रहत । आयुः । जरसम् । वृणानाः । अनुपूर्वम् । यतमानाः । यति । स्थ । इह । त्वष्टा । सुजनिमा । सजोषाः । दीर्घम् । आयुः । करति । जीवसे । वः ॥ā | rahata | āyuḥ | jarasam | vṛṇānāḥ | anu-pūrvam | yatamānāḥ | yati | stha | iha | tvaṣṭā | su-janimā | sa-joṣāḥ | dīrgham | āyuḥ | karati | jīvase | vaḥ