Sukta 10.18
यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु । यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥
यथाहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषाम् ॥
yáthāhā́ny anupūrváṃ bhávanti yáthā ṛtáva ṛtúbhir yánti sādhú | yáthā ná pū́rvam áparo jáhāty evā́ dhātar āyū́ṃṣi kalpaya eṣām ||
As the days come in right succession, as the seasons move rightly with the seasons, as the later does not abandon the earlier—so, O Fashioner, arrange for them their life-courses in ordered continuity.
यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तवः॑ । ऋ॒तुऽभिः॑ । य॒न्ति॑ । सा॒धु । यथा॑ । न । पूर्व॑म् । अप॑रः । जहा॑ति । ए॒व । धा॒तः॒ । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥यथा । अहानि । अनुपूर्वम् । भवन्ति । यथा । ऋतवः । ऋतुभिः । यन्ति । साधु । यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥yathā | ahāni | anu-pūrvam | bhavanti | yathā | ṛtavaḥ | ṛtu-bhiḥ | yanti | sādhu | yathā | na | pūrvam | aparaḥ | jahāti | eva | dhātaḥ | āyūṃṣi | kalpaya | eṣām