Sukta 10.18
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥
इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
imáṃ jīvébhyaḥ paridhíṃ dadhāmi máiṣāṃ nú gād áparo ártham etám | śatáṃ jīvantú śarádaḥ purūcī́r antár mṛtyúṃ dadhatā́ṃ párvatena ||
This boundary-circle I set for the living: let no other go beyond this limit into that further aim (of the dead). Let them live a hundred autumns, many and full; let them place Death within, shut in as by a mountain.
इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । दा॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् । श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥इमम् । जीवेभ्यः । परिधिम् । दाधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् । शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥imam | jīvebhyaḥ | pari-dhim | dādhāmi | mā | eṣām | nu | gāt | aparaḥ | artham | etam | śatam | jīvantu | śaradaḥ | purūcīḥ | antaḥ | mṛtyum | dadhatām | parvatena