Sukta 10.18
इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य । प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य । प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥
imé jīvā́ ví mṛtáir ā́vavṛtran abhū́d bhadrā́ deváhūtīr no adyá | prā́ñco agāma nṛtáye hásāya drā́ghīya ā́yuḥ prataráṃ dádhānāḥ ||
These living ones have turned aside away from the dead; today our call to the gods has become auspicious. We go forward—to the dance and to the gladness—taking up a longer life and a more onward movement.
इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । नः॒ । अ॒द्य । प्राञ्चः॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवहूतिः । नः । अद्य । प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रतरम् । दधानाः ॥ime | jīvāḥ | vi | mṛtaiḥ | ā | avavṛtran | abhūt | bhadrā | deva-hūtiḥ | naḥ | adya | prāñcaḥ | agāma | nṛtaye | hasāya | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ