Sukta 10.18
मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥
मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥
mṛtyóḥ padáṃ yópayantaḥ yádáita drā́ghīya ā́yuḥ prataráṃ dádhānāḥ | āpyā́yamānāḥ prajā́yā dhánena śuddhā́ḥ pūtā́ bhavata yajñiyā́saḥ ||
When you have concealed the track of Death and have passed beyond it, then, taking up a longer life and a more forward (progressive) movement, grow in fullness by the soul’s increase—by progeny (creative continuance) and by wealth (inner plenitude). Become purified and clarified, more fit for the sacrifice.
मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः । आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥मृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्रतरम् । दधानाः । आप्यायमानाः । प्रजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥mṛtyoḥ | padam | yopayantaḥ | yat | aita | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ | āpyāyamānāḥ | pra-jayā | dhanena | śuddhāḥ | pūtāḥ | bhavata | yajñiyāsaḥ