Sukta 10.18
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥
páraṃ mṛ́tyo ánu párēhi pánthāṃ yás te svá ítaro devayā́nāt | cákṣuṣmate śṛṇvaté te bravīmi mā́ naḥ prajā́ṃ rīriṣo mótá vīrā́n ||
Go far beyond, O Death, along that path which is your own, other than the godward way. To you who see and hear I speak: do not injure our becoming, do not touch our heroic energies.
पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥परम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवयानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रजाम् । रिरिषः । मा । उत । वीरान् ॥param | mṛtyo iti | anu | parā | ihi | panthām | yaḥ | te | svaḥ | itaraḥ | deva-yānāt | cakṣuṣmate | śṛṇvate | te | bravīmi | mā | naḥ | pra-jām | ririṣaḥ | mā | uta | vīrān