Sukta 10.18
उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥
उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम् । ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥
utté stabhnāmi pṛthivī́ṃ tvát parīmám lógaṃ nidádhan mó aháṃ ríṣam | etā́ṃ sthūṇā́ṃ pítaro dhārayantu té ’trā yámaḥ sā́danā te minotu ||
Upward I brace the Earth around you, setting this world-order in place—may I not be harmed. Let the Fathers hold this pillar steady; here may Yama build for you a seat, a settled dwelling.
उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् । ए॒ताम् । स्थूणा॑म् । पि॒तरः॑ । धा॒र॒य॒न्तु॒ । ते । अत्र॑ । य॒मः । सद॑ना । ते॒ । मि॒नो॒तु॒ ॥उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । निदधत् । मो इति । अहम् । रिषम् । एताम् । स्थूणाम् । पितरः । धारयन्तु । ते । अत्र । यमः । सदना । ते । मिनोतु ॥ut | te | stabhnāmi | pṛthivīm | tvat | pari | imam | logam | ni-dadhat | mo iti | aham | riṣam | etām | sthūṇām | pitaraḥ | dhārayantu | te | atra | yamaḥ | sadanā | te | minotu