Sukta 10.18
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥
उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥
ucchváñcamānā pṛthivī su tíṣṭhatu sahásraṃ míta úpa hí śráyantām | te gṛhā́so ghṛta-ścúto bhavantu viśvā́hāsmai śaráṇāḥ sántv átra ||
Let the Earth, rising upward in her power, stand firm and well-established. Let a thousand measured supports draw near and lean to him. Let these dwellings become streams of ghee—nourishing and luminous; may they be for him shelters here at every hour.
उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । सु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मितः॑ । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हासः॑ । घृ॒त॒ऽश्चुतः॑ । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥उत्श्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम् । ते । गृहासः । घृतश्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥ut-śvañcamānā | pṛthivī | su | tiṣṭhatu | sahasram | mitaḥ | upa | hi | śrayantām | te | gṛhāsaḥ | ghṛta-ścutaḥ | bhavantu | viśvāhā | asmai | śaraṇāḥ | santu | atra