Sukta 10.179
श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥
श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् । परि॑ त्वासते नि॒धिभि॒: सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥
śrātáṃ havír ó ṣv indra prá yāhi jagā́ma sū́ro ádhvano vímadhyam | pári tvāsate nidhíbhiḥ sákḥāyaḥ kulapā́ ná vrā́japatiṃ cárantam ||
The offering is made ready—come forth, O Indra. The Sun has gone along the mid-course of the path. Friends sit around you with their treasures, as clansmen around the lord of the fold, moving with him.
श्रा॒तम् । ह॒विः । ओ इति॑ । सु । इ॒न्द्र॒ । प्र । या॒हि॒ । ज॒गाम॑ । सूरः॑ । अध्व॑नः । विऽम॑ध्यम् । परि॑ । त्वा॒ । आ॒स॒ते॒ । नि॒धिऽभिः॑ । सखा॑यः । कु॒ल॒ऽपाः । न । व्रा॒जऽप॑तिम् । चर॑न्तम् ॥श्रातम् । हविः । ओ इति । सु । इन्द्र । प्र । याहि । जगाम । सूरः । अध्वनः । विमध्यम् । परि । त्वा । आसते । निधिभिः । सखायः । कुलपाः । न । व्राजपतिम् । चरन्तम् ॥śṛātam | haviḥ | o iti | su | indra | pra | yāhi | jagāma | sūraḥ | adhvanaḥ | vi-madhyam | pari | tvā | āsate | nidhi-bhiḥ | sakhāyaḥ | kula-pāḥ | na | vrāja-patim | carantam