Sukta 10.179
श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥
śrātáṃ manya ū́dhani śrātám agnáu suśrātáṃ manye tád ṛtáṃ navī́yaḥ | mā́dhyandinasya sávanasya dadhnáḥ píbe ndra vajrin purukṛj juṣāṇáḥ ||
I deem it ready in the udder, ready in Agni; perfectly prepared I deem that newer Ṛta. Drink, O Indra the wielder of the thunderbolt, of the curd of the midday pressing, taking delight as the doer of many works.
श्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः । माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥श्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुश्रातम् । मन्ये । तत् । ऋतम् । नवीयः । माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुकृत् । जुषाणः ॥śrātam | manye | ūdhani | śrātam | agnau | su-śrātam | manye | tat | ṛtam | navīyaḥ | mādhyandinasya | savanasya | dadhnaḥ | piba | indra | vajrin | puru-kṛt | juṣāṇaḥ