Sukta 10.176
अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते । रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥
ayám u ṣyá prá devayúr hótā yajñā́ya nīyate | rátho ná yór abhīvṛ́to ghṛṇī́-vāñ cetati tmánā ||
This one indeed—the god-seeking Hotṛ—is led forward for the sacrifice. Like a chariot well-enclosed in its course, radiant with ardour, he moves by his own inner self-awareness, guiding the rite as a conscious power.
अ॒यम् । ऊँ॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ । रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥अयम् । ऊँ इति । स्यः । प्र । देवयुः । होता । यज्ञाय । नीयते । रथः । न । योः । अभिवृतः । घृणिवान् । चेतति । त्मना ॥ayam | oṃ iti | syaḥ | pra | deva-yuḥ | hotā | yajñāya | nīyate | rathaḥ | na | yoḥ | abhi-vṛtaḥ | ghṛṇi-vān | cetati | tmanā