Sukta 10.176
अयमग्निरुरुष्यत्यमृतादिव जन्मनः । सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥
ayám agnír uruṣyaty amṛ́tād iva jánmanaḥ | sáhasaś cit sahī́yān devó jī́vātave kṛtáḥ ||
This Agni widens and guards our being, as if born from immortality itself. Even stronger than force, the god is fashioned in us so that we may truly live (in the greater life).
अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः । सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥अयम् । अग्निः । उरुष्यति । अमृतात्इव । जन्मनः । सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥ayam | agniḥ | uruṣyati | amṛtāt-iva | janmanaḥ | sahasaḥ | cit | sahīyān | devaḥ | jīvātave | kṛtaḥ