Sukta 10.175
ग्रावाण उपरेष्वा महीयन्ते सजोषसः । वृष्णे दधतो वृष्ण्यम् ॥
ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः । वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥
grāvāṇa úpareṣv ā́ mahīyánte sajóṣasaḥ | vṛ́ṣṇe dádhato vṛ́ṣṇyam ||
The pressing-stones upon the upper boards grow mighty in one accord; they set the virile force into the Strong One—establishing strength within strength.
ग्रावा॑णः । उप॑रेषु । आ । म॒ही॒यन्ते॑ । स॒ऽजोष॑सः । वृ॒ष्णे॒ । दध॑तः । वृष्ण्य॑म् ॥ग्रावाणः । उपरेषु । आ । महीयन्ते । सजोषसः । वृष्णे । दधतः । वृष्ण्यम् ॥grāvāṇaḥ | upareṣu | ā | mahīyante | sa-joṣasaḥ | vṛṣṇe | dadhataḥ | vṛṣṇyam