Sukta 10.175
ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । यजमानाय सुन्वते ॥
ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा । यज॑मानाय सुन्व॒ते ॥
grāvāṇaḥ savitā nú vo deváḥ suvatu dhármaṇā | yajámānāya sunvaté ||
O pressing-stones, now may Savitṛ the god impel you by the right law—for the sacrificer who presses: for the soul that labours to express the hidden delight.
ग्रावा॑णः । स॒वि॒ता । नु । वः॒ । दे॒वः । सु॒व॒तु॒ । धर्म॑णा । यज॑मानाय । सु॒न्व॒ते ॥ग्रावाणः । सविता । नु । वः । देवः । सुवतु । धर्मणा । यजमानाय । सुन्वते ॥grāvāṇaḥ | savitā | nu | vaḥ | devaḥ | suvatu | dharmaṇā | yajamānāya | sunvate