Sukta 10.173
ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पति॑: । ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
dhruváṃ te rājā́ váruṇo dhruváṃ devó bृहáspátiḥ | dhruváṃ ta índraś cā́gniś ca rāṣṭráṃ dhārayatāṃ dhruvám ||
May King Varuṇa make thy sovereignty firm; may the god Bṛhaspati make it firm. May Indra and Agni too uphold thy realm in firmness—so the order of thy life stands unshaken.
ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । ध्रु॒वम् । दे॒वः । बृह॒स्पतिः॑ । ध्रु॒वम् । ते॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥ध्रुवम् । ते । राजा । वरुणः । ध्रुवम् । देवः । बृहस्पतिः । ध्रुवम् । ते । इन्द्रः । च । अग्निः । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥dhruvam | te | rājā | varuṇaḥ | dhruvam | devaḥ | bṛhaspatiḥ | dhruvam | te | indraḥ | ca | agniḥ | ca | rāṣṭram | dhārayatām | dhruvam