Sukta 10.173
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वास॒: पर्व॑ता इ॒मे । ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
dhruvā́ dyaúr dhruvā́ pṛthivī́ dhruvā́saḥ párvatā imé | dhruváṃ víśvam idáṃ jágad dhruvó rājā́ viśā́m ayám ||
Fixed is Heaven, fixed is Earth, fixed are these mountains; fixed is all this moving world. So may this king be fixed—stable for the peoples: a center of order in the midst of change.
ध्रु॒वा । द्यौः । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वासः॑ । पर्व॑ताः । इ॒मे । ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रु॒वः । राजा॑ । वि॒शाम् । अ॒यम् ॥ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवासः । पर्वताः । इमे । ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवः । राजा । विशाम् । अयम् ॥dhruvā | dyauḥ | dhruvā | pṛthivī | dhruvāsaḥ | parvatāḥ | ime | dhruvam | viśvam | idam | jagat | dhruvaḥ | rājā | viśām | ayam