Sukta 10.173
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि । अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि । अथो॑ त॒ इन्द्र॒: केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥
dhruváṃ dhruvéṇa havíṣā́bhi sómaṃ mṛśāmasi | átho ta índraḥ kévalīr víśo balihṛ́taḥ karat ||
With a firm offering we touch and claim Soma in firmness. Then may Indra make the peoples wholly thine—bringing their tribute, their willing surrender of energies into thy ordered rule.
ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ । अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि । अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिहृतः । करत् ॥dhruvam | dhruveṇa | haviṣā | abhi | somam | mṛśāmasi | atho iti | te | indraḥ | kevalīḥ | viśaḥ | bali-hṛtaḥ | karat