Sukta 10.173
इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥
इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पति॑: ॥
imám índro adīdharad dhruváṃ dhruvéṇa havíṣā | tásmai sómo ádhi bravat tásmā u bráhmaṇas pátiḥ ||
This one Indra has made firm with a firm offering. To him Soma has spoken assent; to him too the Lord of the Word has spoken—confirming the stability of the consecrated center.
इ॒मम् । इन्द्रः॑ । अ॒दी॒ध॒र॒त् । ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । तस्मै॑ । सोमः॑ । अधि॑ । ब्र॒व॒त् । तस्मै॑ । ऊँ॒ इति॑ । ब्रह्म॑णः । पतिः॑ ॥इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा । तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ऊँ इति । ब्रह्मणः । पतिः ॥imam | indraḥ | adīdharat | dhruvam | dhruveṇa | haviṣā | tasmai | somaḥ | adhi | bravat | tasmai | oṃ iti | brahmaṇaḥ | patiḥ