Sukta 10.171
त्वं मखस्य दोधतः शिरोऽव त्वचो भरः । अगच्छः सोमिनो गृहम् ॥
त्वं म॒खस्य॒ दोध॑त॒: शिरोऽव॑ त्व॒चो भ॑रः । अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥
tváṁ makhásya dódhataḥ śíro áva tváco bharaḥ | ágacchaḥ somíno gṛhám ||
You didst bear away the head of Makha, stripping off the covering skin; you didst come to the house of the Soma-possessor.
त्वम् । म॒खस्य॑ । दोध॑तः । शिरः॑ । अव॑ । त्व॒चः । भ॒रः॒ । अग॑च्छः । सो॒मिनः॑ । गृ॒हम् ॥त्वम् । मखस्य । दोधतः । शिरः । अव । त्वचः । भरः । अगच्छः । सोमिनः । गृहम् ॥tvam | makhasya | dodhataḥ | śiraḥ | ava | tvacaḥ | bharaḥ | agacchaḥ | sominaḥ | gṛham