Sukta 10.170
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥
idáṁ śréṣṭhaṁ jyótiṣāṁ jyótir uttamáṁ viśvajíd dhanajíd ucyate bṛhát | viśvabhrā́ḍ bhrā́jo máhi sū́ryo dṛśé urú paprathé sáha ójo ácyutam ||
This is the best of lights, the supreme Light; it is called the Vast, winner of the world and winner of the riches (the plenitudes). The universal-shining, the great Radiance—Sun for the seeing—has spread wide its irresistible force and unfaltering power.
इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् । वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्तमम् । विश्वजित् । धनजित् । उच्यते । बृहत् । विश्वभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥idam | śreṣṭham | jyotiṣām | jyotiḥ | ut-tamam | viśva-jit | dhana-jit | ucyate | bṛhat | viśva-bhrāṭ | bhrājaḥ | mahi | sūryaḥ | dṛśe | uru | paprathe | sahaḥ | ojaḥ | acyutam